|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.254. अध्यायः 254
(अथ मयदर्शनपर्व ॥ 19 ॥)
Mahabharata - Adi Parva - Chapter Topics
देवेषु पराजितेषु अशरीरवाणीश्रवणेन इन्द्रस्य निवृत्तिः॥ 1 ॥
पलायमानं मयं हन्तुमुद्युक्ते श्रीकृष्णे आत्मानं शरणागतस्य मयस्य अर्जुनेनाभयदानम्॥ 2 ॥
खाण्डवदाहेऽपि अश्वसेनादीनामदाहस्य वैशम्पायनेन कथनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-254-0x(1331)(11043)
तथा शैलनिपातेन भीषिताः खाण्डवालयाः।
दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः॥ 1-254-1(11044)
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा।
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा॥ 1-254-2(11045)
समुद्विग्ना विससृपुस्तथान्या भूतजातयः।
तं दावं समुदैक्षन्त कृष्णौ चाभ्युद्यतायुधौ॥ 1-254-3(11046)
उत्पातनादशब्देन त्रासिता इव चाभवन्।
ते वनं प्रसमीक्ष्याथ दह्यमानमनेकधा॥ 1-254-4(11047)
कृष्णमभ्युद्यतास्त्रं च नादं मुमुचुरुल्बणम्।
तेन नादेन रौद्रेण नादेन च विभावसोः॥ 1-254-5(11048)
ररास गगनं कृत्स्नमुत्पातजलदैरिव।
ततः कृष्णो महाबाहुः स्वतेजोभास्वरं महत्॥ 1-254-6(11049)
चक्रं व्यसृजदत्युग्रं तेषां नाशाय केशवः।
तेनार्ता जातयः क्षुद्राः सदानवनिशाचराः॥ 1-254-7(11050)
निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात्।
तत्रादृश्यन्त ते दैत्याः कृष्णचक्रविदारिताः॥ 1-254-8(11051)
वसारुधिरसंपृक्ताः सन्ध्यायामिव तोयदाः।
पिशाचान्पक्षिणो नागान्पशूंश्चैव सहस्रशः॥ 1-254-9(11052)
निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत।
क्षिप्तं क्षिप्तं पुनश्चक्रं कृष्णस्यामित्रघातिनः॥ 1-254-10(11053)
छित्त्वानेकानि सत्वानि पाणिमेति पुनः पुनः।
तथा तु निघ्नतस्तस्य पिशाचोरगराक्षसान्॥ 1-254-11(11054)
बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा।
समेतानां च सर्वेषां दानवानां च सर्वशः॥ 1-254-12(11055)
विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे।
तयोर्बलात्परित्रातुं तं च दावं यदा सुराः॥ 1-254-13(11056)
नाशक्नुवञ्शमयितुं तदाऽभूवन्पराङ्मुखाः।
शतक्रतुस्तु संप्रेक्ष्य विमुखानमरांस्तथा॥ 1-254-14(11057)
बभूव मुदितो राजन्प्रशंसन्केशवार्जुनौ।
निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी॥ 1-254-15(11058)
शतक्रतुं समाभाष्य महागम्भीरनिःस्वना।
न ते सखा सन्निहितस्तक्षको भुजगोत्तमः॥ 1-254-16(11059)
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ।
न च शक्यौ युधा जेतुं कथंचिदपि वासव॥ 1-254-17(11060)
वासुदेवार्जुनावेतौ निबोध वचनान्मम।
नरनारायणावेतौ पूर्वदेवौ दिवि श्रुतौ॥ 1-254-18(11061)
भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ।
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि॥ 1-254-19(11062)
अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ।
पूजनीयतमावेतावपि सर्वैः सुरासुरैः॥ 1-254-20(11063)
यक्षराक्षसगन्धर्वनरकिन्नरपन्नगैः।
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव॥ 1-254-21(11064)
दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम्।
इति वाक्यमुपश्रुत्य तथ्यमित्यमरेश्वरः॥ 1-254-22(11065)
क्रोधामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा।
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः॥ 1-254-23(11066)
सहिताः सेनया राजन्ननुजग्मुः पुरन्दरम्।
देवराजं तदा यान्तं सह देवैरवेक्ष्य तु॥ 1-254-24(11067)
वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः।
देवराजे गते राजन्प्रहृष्टौ केशवार्जुनौ॥ 1-254-25(11068)
निर्विशङ्कं वनं वीरौ दाहयामासतुस्तदा।
स मारुत इवाभ्राणि नाशयित्वाऽर्जुनः सुरान्॥ 1-254-26(11069)
व्यधमच्छरसङ्घातैर्देहिनः खाण्डवालयान्।
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः॥ 1-254-27(11070)
संछिद्यमानमिषुभिरस्यता सव्यसाचिना।
नाशक्नुवंश्च भूतानि महान्त्यपि रणेऽर्जुनम्॥ 1-254-28(11071)
निरीक्षितुममोघास्त्रं योद्धुं चापि कुतो रणे।
शतं चैकेन विव्याध शतेनैकं पतत्रिणाम्॥ 1-254-29(11072)
व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव।
न चालभन्त ते शर्म रोधःसु विषमेषु च॥ 1-254-30(11073)
पितृदेवनिवासेषु सन्तापश्चाप्यजायत।
भूतसङ्घाश्च बहवो दीनाश्चक्रुर्महास्वनम्॥ 1-254-31(11074)
रुरुदुर्वारणाश्चैव तथा मृगतरक्षवः।
तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः॥ 1-254-32(11075)
विद्याधरगणाश्चैव ये च तत्र वनौकसः।
न त्वर्जुनं महाबाहो नापि कृष्णं जनार्दनम्॥ 1-254-33(11076)
निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः।
एकायनगता येऽपि निष्पेतुस्तत्र केचन॥ 1-254-34(11077)
राक्षसा दानवा नागा जघ्ने चक्रेण तान्हरिः।
ते तु भिन्नशिरोदेहाश्चक्रवेगाद्गतासवः॥ 1-254-35(11078)
पेतुरन्ये महाकायाः प्रदीप्ते वसुरेतसि।
समांसरुधिरौधैश्च वसाभिश्चापि तर्पितः॥ 1-254-36(11079)
उपर्याकाशगो भूत्वा विधूमः समपद्यत।
दीप्ताक्षो दीप्तजिह्वश्च संप्रदीप्तमहाननः॥ 1-254-37(11080)
दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम्।
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः॥ 1-254-38(11081)
बभूव मुदितस्तृप्तः परां निर्वृतिमागतः।
तथाऽसुरं मयं नाम तक्षकस्य निवेशनात्॥ 1-254-39(11082)
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः।
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः॥ 1-254-40(11083)
शरीरवाञ्जटी भूत्वा नदन्निव बलाहकः।
विज्ञाय दानवेन्द्राणां मयं वै शिल्पिनां वरम्॥ 1-254-41(11084)
जिघांसुर्वासुदेवस्तं चक्रमुद्यम्य धिष्ठितः।
स चक्रमुद्यतं दृष्ट्वा दिधक्षन्तं च पावकम्॥ 1-254-42(11085)
अभिधावार्जुनेत्येवं मयस्त्राहीति चाब्रवीत्।
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनंजयः॥ 1-254-43(11086)
प्रत्युवाच मयं पार्थो जीवयन्निव भारत।
तं न भेतव्यमित्याह मयं पार्थो दयापरः॥ 1-254-44(11087)
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम्।
न हन्तुमैच्छद्दाशार्हः पावको न ददाह च॥ 1-254-45(11088)
तद्वनं पावको धीमान्दिनानि दश पञ्च च।
ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात्॥ 1-254-46(11089)
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च।
अश्वसेनं मयं चैव चतुरः शार्ङ्गकांस्तथा॥ ॥ 1-254-47(11090)
इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि चतुःपञ्चाशदधिकद्विशततमोऽध्यायः॥ 254 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|