(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.254. अध्यायः 254
(अथ मयदर्शनपर्व ॥ 19 ॥)
Mahabharata - Adi Parva - Chapter Topics
देवेषु पराजितेषु अशरीरवाणीश्रवणेन इन्द्रस्य निवृत्तिः॥ 1 ॥
पलायमानं मयं हन्तुमुद्युक्ते श्रीकृष्णे आत्मानं शरणागतस्य मयस्य अर्जुनेनाभयदानम्॥ 2 ॥
खाण्डवदाहेऽपि अश्वसेनादीनामदाहस्य वैशम्पायनेन कथनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-254-0x(1331)(11043)
तथा शैलनिपातेन भीषिताः खाण्डवालयाः।
दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः॥ 1-254-1(11044)
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा।
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा॥ 1-254-2(11045)
समुद्विग्ना विससृपुस्तथान्या भूतजातयः।
तं दावं समुदैक्षन्त कृष्णौ चाभ्युद्यतायुधौ॥ 1-254-3(11046)
उत्पातनादशब्देन त्रासिता इव चाभवन्।
ते वनं प्रसमीक्ष्याथ दह्यमानमनेकधा॥ 1-254-4(11047)
कृष्णमभ्युद्यतास्त्रं च नादं मुमुचुरुल्बणम्।
तेन नादेन रौद्रेण नादेन च विभावसोः॥ 1-254-5(11048)
ररास गगनं कृत्स्नमुत्पातजलदैरिव।
ततः कृष्णो महाबाहुः स्वतेजोभास्वरं महत्॥ 1-254-6(11049)
चक्रं व्यसृजदत्युग्रं तेषां नाशाय केशवः।
तेनार्ता जातयः क्षुद्राः सदानवनिशाचराः॥ 1-254-7(11050)
निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात्।
तत्रादृश्यन्त ते दैत्याः कृष्णचक्रविदारिताः॥ 1-254-8(11051)
वसारुधिरसंपृक्ताः सन्ध्यायामिव तोयदाः।
पिशाचान्पक्षिणो नागान्पशूंश्चैव सहस्रशः॥ 1-254-9(11052)
निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत।
क्षिप्तं क्षिप्तं पुनश्चक्रं कृष्णस्यामित्रघातिनः॥ 1-254-10(11053)
छित्त्वानेकानि सत्वानि पाणिमेति पुनः पुनः।
तथा तु निघ्नतस्तस्य पिशाचोरगराक्षसान्॥ 1-254-11(11054)
बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा।
समेतानां च सर्वेषां दानवानां च सर्वशः॥ 1-254-12(11055)
विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे।
तयोर्बलात्परित्रातुं तं च दावं यदा सुराः॥ 1-254-13(11056)
नाशक्नुवञ्शमयितुं तदाऽभूवन्पराङ्मुखाः।
शतक्रतुस्तु संप्रेक्ष्य विमुखानमरांस्तथा॥ 1-254-14(11057)
बभूव मुदितो राजन्प्रशंसन्केशवार्जुनौ।
निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी॥ 1-254-15(11058)
शतक्रतुं समाभाष्य महागम्भीरनिःस्वना।
न ते सखा सन्निहितस्तक्षको भुजगोत्तमः॥ 1-254-16(11059)
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ।
न च शक्यौ युधा जेतुं कथंचिदपि वासव॥ 1-254-17(11060)
वासुदेवार्जुनावेतौ निबोध वचनान्मम।
नरनारायणावेतौ पूर्वदेवौ दिवि श्रुतौ॥ 1-254-18(11061)
भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ।
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि॥ 1-254-19(11062)
अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ।
पूजनीयतमावेतावपि सर्वैः सुरासुरैः॥ 1-254-20(11063)
यक्षराक्षसगन्धर्वनरकिन्नरपन्नगैः।
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव॥ 1-254-21(11064)
दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम्।
इति वाक्यमुपश्रुत्य तथ्यमित्यमरेश्वरः॥ 1-254-22(11065)
क्रोधामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा।
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः॥ 1-254-23(11066)
सहिताः सेनया राजन्ननुजग्मुः पुरन्दरम्।
देवराजं तदा यान्तं सह देवैरवेक्ष्य तु॥ 1-254-24(11067)
वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः।
देवराजे गते राजन्प्रहृष्टौ केशवार्जुनौ॥ 1-254-25(11068)
निर्विशङ्कं वनं वीरौ दाहयामासतुस्तदा।
स मारुत इवाभ्राणि नाशयित्वाऽर्जुनः सुरान्॥ 1-254-26(11069)
व्यधमच्छरसङ्घातैर्देहिनः खाण्डवालयान्।
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः॥ 1-254-27(11070)
संछिद्यमानमिषुभिरस्यता सव्यसाचिना।
नाशक्नुवंश्च भूतानि महान्त्यपि रणेऽर्जुनम्॥ 1-254-28(11071)
निरीक्षितुममोघास्त्रं योद्धुं चापि कुतो रणे।
शतं चैकेन विव्याध शतेनैकं पतत्रिणाम्॥ 1-254-29(11072)
व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव।
न चालभन्त ते शर्म रोधःसु विषमेषु च॥ 1-254-30(11073)
पितृदेवनिवासेषु सन्तापश्चाप्यजायत।
भूतसङ्घाश्च बहवो दीनाश्चक्रुर्महास्वनम्॥ 1-254-31(11074)
रुरुदुर्वारणाश्चैव तथा मृगतरक्षवः।
तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः॥ 1-254-32(11075)
विद्याधरगणाश्चैव ये च तत्र वनौकसः।
न त्वर्जुनं महाबाहो नापि कृष्णं जनार्दनम्॥ 1-254-33(11076)
निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः।
एकायनगता येऽपि निष्पेतुस्तत्र केचन॥ 1-254-34(11077)
राक्षसा दानवा नागा जघ्ने चक्रेण तान्हरिः।
ते तु भिन्नशिरोदेहाश्चक्रवेगाद्गतासवः॥ 1-254-35(11078)
पेतुरन्ये महाकायाः प्रदीप्ते वसुरेतसि।
समांसरुधिरौधैश्च वसाभिश्चापि तर्पितः॥ 1-254-36(11079)
उपर्याकाशगो भूत्वा विधूमः समपद्यत।
दीप्ताक्षो दीप्तजिह्वश्च संप्रदीप्तमहाननः॥ 1-254-37(11080)
दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम्।
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः॥ 1-254-38(11081)
बभूव मुदितस्तृप्तः परां निर्वृतिमागतः।
तथाऽसुरं मयं नाम तक्षकस्य निवेशनात्॥ 1-254-39(11082)
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः।
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः॥ 1-254-40(11083)
शरीरवाञ्जटी भूत्वा नदन्निव बलाहकः।
विज्ञाय दानवेन्द्राणां मयं वै शिल्पिनां वरम्॥ 1-254-41(11084)
जिघांसुर्वासुदेवस्तं चक्रमुद्यम्य धिष्ठितः।
स चक्रमुद्यतं दृष्ट्वा दिधक्षन्तं च पावकम्॥ 1-254-42(11085)
अभिधावार्जुनेत्येवं मयस्त्राहीति चाब्रवीत्।
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनंजयः॥ 1-254-43(11086)
प्रत्युवाच मयं पार्थो जीवयन्निव भारत।
तं न भेतव्यमित्याह मयं पार्थो दयापरः॥ 1-254-44(11087)
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम्।
न हन्तुमैच्छद्दाशार्हः पावको न ददाह च॥ 1-254-45(11088)
तद्वनं पावको धीमान्दिनानि दश पञ्च च।
ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात्॥ 1-254-46(11089)
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च।
अश्वसेनं मयं चैव चतुरः शार्ङ्गकांस्तथा॥ ॥ 1-254-47(11090)

इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि चतुःपञ्चाशदधिकद्विशततमोऽध्यायः॥ 254 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.